मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ४

संहिता

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
अत॑स्त्वा गी॒र्भिर्द्यु॒गदि॑न्द्र के॒शिभि॑ः सु॒तावाँ॒ आ वि॑वासति ॥

पदपाठः

यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।
अतः॑ । त्वा॒ । गीः॒ऽभिः । द्यु॒ऽगत् । इ॒न्द्र॒ । के॒शिऽभिः॑ । सु॒तऽवा॑न् । आ । वि॒वा॒स॒ति॒ ॥

सायणभाष्यम्

हे शक्र शत्रुहननसमर्थेन्द्र यद्यदा परावति विप्रकृष्टेतिदूरे द्युलोके देशे असि विद्यसे हे वृत्रहन् वृत्रस्य हन्तरिन्द्र यद्यदि अर्वावति अर्वाचीने तस्मादधस्तात् स्थिते तदपेक्षया समीपेदेशेन्तरिक्षे भवसि । तस्मादपि अतोस्माद्भूलोकाद्वा द्युगत् गमॢगतौ क्विपि गमःक्वाविति अनुना- सिकलोपः तुक् सुपांसुलुगितिलुक् । द्युलोकंप्रति गच्छद्भिः स्वभासा सर्वतोगच्छद्भिः केशिभिः केशवद्भिः हरिभिरिवस्थिताभिर्गीर्भिः स्तुतिभिः त्वा त्वां सुतवानभिषुतसोमवान्यजमान आविवासति आत्मीयं यज्ञं प्रत्यागमयति त्वामेतैः स्तोत्रैःपरिचरतीतिवा ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६