मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ८

संहिता

अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।
कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥

पदपाठः

अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते । नि । स॒द॒ । पी॒तये॑ । मधु॑ ।
कृ॒धि । ज॒रि॒त्रे । म॒घ॒ऽव॒न् । अवः॑ । म॒हत् । अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते ॥

सायणभाष्यम्

हे इंद्र अस्मे अस्माभिः सचा सह सुतेभिषुतेसोमे निषद अस्मदीये यज्ञेनिषाद । किमर्थं मधुपीतये मधुनः सुपांसुलुगिति ङसोलुक् मदकरस्य सोमस्य पीतये पानाय । किंच हे मघवन् धनवन्निन्द्र महदवोरक्षणं जरित्रे कृधि कुरु कस्मिन्सति अस्मेइन्द्रसचासुतइति व्याख्यातःपादः ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७