मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् १३

संहिता

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥

पदपाठः

तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि ।
मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥

सायणभाष्यम्

तं पूर्वोक्तगुणोपेतमिन्द्रं जोहवीमि यष्टाहं पुनः पुनराह्वयामि ह्वयतेरभ्यस्तस्यचेति संप्रसारणं ॥ कीदृशं मघवानं मंहनीयधनवन्तं उग्रं उद्रूर्णबलं सत्रा सत्यं यथार्थमेवशवांसि बलानि दधानं अतएवाप्रतिष्कुतं शत्रुभिरप्रतिरोधनीयं आह्वयामी । किंच मंहिष्ठः पूज्यतमः दातृतमोवा यज्ञियोयज्ञार्हइन्द्रो गीर्भिरस्मदीयाभिः स्तुतिभिराववर्तच्च यज्ञेषु आभिमुख्येन वर्ततांच । वर्ततेर्ण्यन्तस्य चङिरूपं चवायोगे प्रथमेति ननिघातः चङ्यन्यतरस्यामितिस्वरः । ततोवज्री वज्रवानिन्द्रः नोस्माकं राये धनाय विश्वा विश्वानि सर्वाण्येव सुपथा सुमा- र्गाणि कृणोतुच करोतु धनं सर्वदिक् स्थमस्मान्प्राप्नोत्वित्यर्थः ॥ १३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८