मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ७

संहिता

अधा॒ ही॑न्द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।
उ॒देव॒ यन्त॑ उ॒दभि॑ः ॥

पदपाठः

अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ ।
उ॒दाऽइ॑व । यन्तः॑ । उ॒दऽभिः॑ ॥

सायणभाष्यम्

हे गिर्वणो गीर्भिर्वननीयेन्द्र अधाहि संप्रतिहि त्वा त्वां महोमहतः कामान् कमनीयान् स्तोमान् उपससृज्महे उपसृजामः प्रापयामइत्यर्थः । तत्र दृष्टान्तमाह-उदेव यथा उदकेन यन्तोगच्छन्तः उदभिः अञ्चलिनोत्क्षिप्योदकैः समीपस्थान् पुरुषान् क्रीडार्थं संसृजन्ति तद्वदित्यर्थः ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः