मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् ४

संहिता

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ।
सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥

पदपाठः

अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ।
सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥

सायणभाष्यम्

हे स्तोतारः अनर्शरातिं अपापकदानं अपापिष्ठस्य दातारमित्यर्थः । तथाचयास्कः-अनर्शरातिमनश्लीलदानमश्लीलं पापकमिति । वसुदां धनस्य- दातारमिन्द्रं उपस्तुहि यतइन्द्रस्य रातयोदानानि भद्राः कल्याणानि महदैश्वर्यकारीणीत्यर्थः । यतश्च सइन्द्रः स्वकीयं मनोदानाय अभीष्ट- प्रदानाय चोदयन् प्रेरयन् विधतः परिचरतोस्य स्तोतुः काममिच्छां नरोषति नहिनस्ति ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः