मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् ६

संहिता

अनु॑ ते॒ शुष्मं॑ तु॒रय॑न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे॑ वृ॒त्रं यदि॑न्द्र॒ तूर्व॑सि ॥

पदपाठः

अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ ।
विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥

सायणभाष्यम्

हे इन्द्र ते तव शुष्मं बलं तुरयन्तं हिंसन्तं शत्रुं क्षोणी द्यावापृथिव्यौ मातरा मातरौ शिशुंन शिशुमिव अन्वीयतुः अनुगच्छतः । गमनमात्रे दृष्टान्तः । किंच हेइन्द्र त्वं यद्यस्माद्बृत्रं शत्रुं तूर्वसि हंसि अतस्ते तव मन्यवे क्रोधाय विश्वाः सर्वाः स्पृधः संग्रामकारिण्यः सेनाः श्नथयन्त श्नथिताः खिन्नाभवन्ति ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः