मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् १

संहिता

अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यन्ति प॒श्चात् ।
य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥

पदपाठः

अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा॑ । पु॒रस्ता॑त् । विश्वे॑ । दे॒वाः । अ॒भि । मा॒ । य॒न्ति॒ । प॒श्चात् ।
य॒दा । मह्य॑म् । दीध॑रः । भा॒गम् । इ॒न्द्र॒ । आत् । इत् । मया॑ । कृ॒ण॒वः॒ । वी॒र्या॑णि ॥

सायणभाष्यम्

हे इन्द्र ते तव पुरस्तात् अग्रतः तन्वा पुत्रेणसह अयमहमेमि शत्रूनभिभवितुं गच्छामि । तवाग्रतोगच्छन्तं मां विश्वेदेवाः त्वया सह पश्चादभियन्ति अभिगच्छन्ति यदा त्वं मह्यं भार्गवाय नेमाय भागं शत्रुषु स्थितं भागं दीधरः धारयसि आदित् अनन्तरमेव मया सह मच्छत्रून् जेतुं वीर्याणि पौरुषाणि कृणवः कुरु । यदि शत्रुषु स्थितं धनं मह्यं दित्ससि तर्हि शत्रुजयार्थं गच्छतः सपुत्रस्य मम साहाय्यं कुर्वितिभावः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः