मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् ४

संहिता

अ॒यम॑स्मि जरित॒ः पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।
ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ॥

पदपाठः

अ॒यम् । अ॒स्मि॒ । ज॒रि॒त॒रिति॑ । पश्य॑ । मा॒ । इ॒ह । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒स्मि॒ । म॒ह्ना ।
ऋ॒तस्य॑ । मा॒ । प्र॒ऽदिशः॑ । व॒र्ध॒य॒न्ति॒ । आ॒ऽद॒र्दि॒रः । भुव॑ना । द॒र्द॒री॒मि॒ ॥

सायणभाष्यम्

एवं नेमस्यऋषेर्वचनमाकर्ण्य इन्द्रस्तस्य समीपमाजगाम । आगत्य चात्मानमनेन द्वृचेन स्तौति-हे जरितः स्तोतः अयमहमस्मि इह तवसमीपे स्थितं मा मां पश्य । विश्वा सर्वाणि जातानि भुवनानि मह्ना महत्त्वेन अभ्यस्मि अहमभिभवामि । किंच मा मां ऋतस्य सत्यस्य यज्ञस्य वा प्रदिशः प्रदेष्टारोविद्वांसः स्तोत्रैर्वर्धयन्ति । अपिच आदर्दिरः आदरणशीलोहं भुवना भुवनानि शत्रुभूतानि दर्दरीमि भृशं विदारयामि ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः