मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् ५

संहिता

आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।
मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्त॒ः सखा॑यः ॥

पदपाठः

आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे ।
मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥

सायणभाष्यम्

यद्यदा ये ऋतस्य यज्ञस्य यज्ञं कर्मणिषष्ठी वेनाः कामयमानाः हर्यतस्य कान्तस्यान्तरिक्षस्य पृष्ठे आसीनं उपविष्टं एकं मा मां आ अरुहन् तेषां भवतां आरोहं मनश्चित् मनएव मम हृदे हृदयाम प्रत्यवोचत् अब्रतीत् । अज्ञाशिषंच तदाह्वानम् । शिशुमन्तः पुत्रयुक्ताः सखायः प्रियाअमी अचिक्रदन् मां क्रन्दन्तीति ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः