मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् ९

संहिता

स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।
भर॑न्त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिम् ॥

पदपाठः

स॒मु॒द्रे । अ॒न्तरिति॑ । श॒य॒ते॒ । उ॒द्ना । वज्रः॑ । अ॒भिऽवृ॑तः ।
भर॑न्ति । अ॒स्मै॒ । स॒म्ऽयतः॑ । पु॒रःऽप्र॑स्रवणाः । ब॒लिम् ॥

सायणभाष्यम्

योवज्रः समुद्रेअन्तः समुद्रस्यमध्ये शयते शेते यश्च उद्गा उदकेन अभिवृतः अस्मे वज्राय संयतः संग्रामस्य । मग्मन् संयतइति संग्रामनामसु पाठात् । पुरः प्रस्रवणाः पुरस्ताद्गच्छन्तः शत्रवो बलिं उपहारं भरन्ति धारयन्ति तस्य छेद्या भवन्तीत्यर्थः ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः