मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् ८

संहिता

रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।
प्राचीं॒ होत्रां॑ प्रति॒रन्ता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥

पदपाठः

रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस॑म् । हवा॑महे । यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
प्राची॑म् । होत्रा॑म् । प्र॒ऽति॒रन्तौ॑ । इ॒त॒म् । न॒रा॒ । गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना ॥

सायणभाष्यम्

हे वाजिनीवसु अन्नधनावश्विनौ वां युवयोः संबन्धि यदरक्षसं रक्षोवर्जितं दानमस्ति तद्यदा हवामहे याचामहे । एतदेव विशदयति युवाभ्यां क्रियमाणां रातिं दानं हवामहे इति तदानीं प्राचीं प्राङ्मुखां होत्रां स्तुतिं प्रतिरन्तौ वर्धयन्तौ नरा नेतारौ जमदग्निना ऋषिणा गृणाना स्तूयमानौ सन्तौ इतं आगच्छतम् ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः