आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।
अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥
आ । नः॒ । य॒ज्ञम् । दि॒वि॒ऽस्पृश॑म् । वायो॒ इति॑ । या॒हि । सु॒मन्म॑ऽभिः ।
अ॒न्तरिति॑ । प॒वित्रे॑ । उ॒परि॑ । श्री॒णा॒नः । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ॥
हे वायो त्वं नोस्माकं दिविस्पृशं तं यज्ञमायाहि । किमर्थमागमनमित्यत्राह-सुमन्मभिः सुष्टुतिभिः अन्तः पवित्रे पवित्रस्यमध्ये उपरिश्रीणानः श्रयमाणो निषिच्यमाणोयं शुक्रः सोमस्ते तुभ्यं अयामि नियताअसीदिति ॥ ९ ॥