मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् १०

संहिता

वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठै॒ः प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।
अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरम् ॥

पदपाठः

वेति॑ । अ॒ध्व॒र्युः । प॒थिऽभिः॑ । रजि॑ष्ठैः । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ।
अध॑ । नि॒यु॒त्वः॒ । उ॒भय॑स्य । नः॒ । पि॒ब॒ । शुचि॑म् । सोम॑म् । गोऽआ॑शिरम् ॥

सायणभाष्यम्

हे नियुत्वः नियुत्संज्ञकाश्ववन्वायो अध्वर्युः हविर्धानात् रजिष्ठैः ऋजुतमैः पथिभिर्मार्गैः वेतिगच्छति वीतये भक्षणाय । तव भक्षणानि हव्यानि हवींषिच प्रतिनयतीतिशेषः । अध अथ नोस्माकं संबन्धिनं उभयस्य उभयविधं सोमं कर्मणिषष्ठी पिब । उभयविधत्वं दर्शयति शुचिं शुद्धं सोमं गवाशिरं गव्येन पयसा मिश्रितं चेति ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः