मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ७

संहिता

अ॒ग्निं वो॑ वृ॒धन्त॑मध्व॒राणां॑ पुरू॒तम॑म् ।
अच्छा॒ नप्त्रे॒ सह॑स्वते ॥

पदपाठः

अ॒ग्निम् । वः॒ । वृ॒धन्त॑म् । अ॒ध्व॒राणा॑म् । पु॒रु॒ऽतम॑म् ।
अच्छ॑ । नप्त्रे॑ । सह॑स्वते ॥

सायणभाष्यम्

अध्वराणामहिंस्यानां बलिनां नत्ने बन्धुं सहस्वते बलवन्तं विभक्तिव्यत्ययः वृधन्तं ज्वालाभिर्वर्धमानं पुरूतमं अतिशयेन बहुमग्निं ऋत्वि- जोवोयूयं अच्छ अभिगच्छत ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०