मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ८

संहिता

अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।
अ॒स्य क्रत्वा॒ यश॑स्वतः ॥

पदपाठः

अ॒यम् । यथा॑ । नः॒ । आ॒ऽभुव॑त् । त्वष्टा॑ । रू॒पाऽइ॑व । तक्ष्या॑ ।
अ॒स्य । क्रत्वा॑ । यश॑स्वतः ॥

सायणभाष्यम्

अयमग्निर्नोस्मान् तक्ष्या विकर्तव्यानि रूपेव त्वष्टा रूपाणि वर्धकिरिव यथा येनप्रकारेण आभुवत् आभवति तथैवमग्निं अभिगच्छतेत्यर्थः । किंच वयं अस्याग्नेः क्रत्वा प्रज्ञानेन युक्ताः यशस्वतो यशस्वन्तो भवेमेति शेषः ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०