मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ९

संहिता

अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।
आ वाजै॒रुप॑ नो गमत् ॥

पदपाठः

अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ ।
आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥

सायणभाष्यम्

मनुष्याणां विश्वाः सर्वाः श्रियः संपदः देवेषु देवानां मध्ये योयमग्निरभिपत्यते अभिगच्छति सोग्निर्नोस्मानपि वाजैरन्नैरुपागमदुपागच्छतु ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०