मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १६

संहिता

अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।
आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

पदपाठः

अग्ने॑ । घृ॒तस्य॑ । धी॒तिऽभिः॑ । ते॒पा॒नः । दे॒व॒ । शो॒चिषा॑ ।
आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥

सायणभाष्यम्

हे देव द्योतमानाग्ने घृतस्य दीप्तिराधनस्याज्यस्य धीतिभिः निधानैः तेपानः तपन् शोचिषा ज्वालया देवान् प्रत्यावक्षि आवह यक्षि यज च ॥ १६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२