मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् २२

संहिता

अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्य॑ः ।
अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥

पदपाठः

अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चे॒त॒ । मर्त्यः॑ ।
अ॒ग्निम् । ई॒धे॒ । वि॒वस्व॑ऽभिः ॥

सायणभाष्यम्

मर्त्योमनुष्योग्निमिन्धानः काष्ठैःप्रज्वलन् मनसैव श्रद्दधानो धियंकर्मसचेत काले भजेत । विवस्वभिः ऋत्विग्भिश्चाग्निमेव ईधे प्रज्वलति ॥ २२ ॥

अदर्शीति चतुर्दशर्चं दशमं सूक्तं काण्वस्य सोभरेरार्षम् । अत्रानुक्रम्यते-अदर्शिषळूना सोभरिर्बार्हतं पंचमीविराड्रूपा सप्तम्याद्ययुजः सतोबृहत्यः अष्टम्यादियुजः ककुब्भ्रसीयसी ककुबनुष्टुबन्त्याग्निमारुतीति । पंचमीसप्तमीनवम्येकादशीत्रयोदश्यः पंचसतोबृहत्यः अष्टमीद्वादश्यौककुभौ दशमी गायत्री चतुर्दश्यनुष्टुप् शिष्टाबृहत्यः । आग्नेयंत्वित्युक्तत्वादग्निर्देवता अन्त्यायास्त्वग्निर्मरुतश्च । प्रातरनुवाकस्याग्नेयेक्रतौ बार्हतेछन्दस्या- दितः सप्तर्चः । सूत्रितंच-अदर्शिगातुवित्तमइति सप्तेतिबार्हतम् । आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्य प्रमंहिष्ठायेति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितंच-प्रमंहिष्ठायगायतप्रसोअग्नेतवोतिभिरिति । अध्यायोपाकरणोसर्जनयोः मण्डलान्त्यहोमे आग्नेयाहीत्येषा । सूत्रितंच-माचिदाग्नयोहि- मरुत्सखा यत्तेराजन्नग्रेइति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२