मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ५

संहिता

स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
त्वे दे॑व॒त्रा सदा॑ पुरूवसो॒ विश्वा॑ वा॒मानि॑ धीमहि ॥

पदपाठः

सः । दृ॒ळ्हे । चि॒त् । अ॒भि । तृ॒ण॒त्ति॒ । वाज॑म् । अर्व॑ता । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।
त्वे इति॑ । दे॒व॒ऽत्रा । सदा॑ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । विश्वा॑ । वा॒मानि॑ । धी॒म॒हि॒ ॥

सायणभाष्यम्

हे पुरूवसो बहुधनाग्ने यस्तुभ्यं हवींषि प्रयच्छति सयजमानो दृह्ळेचित् दृढेपि शत्रुपुरे स्थितं वाजमन्नं अर्वताश्वेन अभितृणत्ति हिनस्ति । यथा सयजमानः अक्षिति अक्षीणं श्रवोन्नं धत्ते धारयति । तथाचसति तुभ्यं हविषां प्रदातारो वयमपि देवत्रा देवे त्वयि स्थिता विश्वासर्वा सर्वाणि वामानि वननीयानि धनानि सदा सर्वदा धीमहि धारयामः ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३