मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ७

संहिता

अश्वं॒ न गी॒र्भी र॒थ्यं॑ सु॒दान॑वो मर्मृ॒ज्यन्ते॑ देव॒यवः॑ ।
उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो॑ म॒घोना॑म् ॥

पदपाठः

अश्व॑म् । न । गीः॒ऽभिः । र॒थ्य॑म् । सु॒ऽदान॑वः । म॒र्मृ॒ज्यन्ते॑ । दे॒व॒ऽयवः॑ ।
उ॒भे इति॑ । तो॒के इति॑ । तन॑ये । द॒स्म॒ । वि॒श्प॒ते॒ । पर्षि॑ । राधः॑ । म॒घोना॑म् ॥

सायणभाष्यम्

हे दस्म दर्शनीय विश्पते विशांपते अग्ने यं त्वां सुदानवः शोभनदानाः देवयवो देवानात्मनइच्छन्तो यजमानाः रथ्यं रथस्य वोढारं अश्वंन अश्वमिव गीर्भिः स्तुतिभिः मर्मृज्यन्ते परिचरन्ति । त्वमस्माकं यजमानानां तोके पुत्रे तनये पौत्रे चोभे उभयस्मिन् मघोनां धनवतां यो धनं पर्षि प्रयच्छ ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४