मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् १२

संहिता

मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।
यः सु॒होता॑ स्वध्व॒रः ॥

पदपाठः

मा । नः॒ । ह॒णी॒ता॒म् । अति॑थिः । वसुः॑ । अ॒ग्निः । पु॒रु॒ऽप्र॒श॒स्तः । ए॒षः ।
यः । सु॒ऽहोता॑ । सु॒ऽअ॒ध्व॒रः ॥

सायणभाष्यम्

वसुर्वासकः अतिथिरतिथिवत्प्रियः पुरुप्रशस्तः बहुभिः स्तुतः सुहोता सुष्ठु देवानामाह्वाता स्वध्वरः सुयज्ञश्च योग्निः सएषोग्निः नोस्मभ्यं माहृणीतां केनापि नरुध्यताम् । केनाप्यनवरुद्धः सन् अग्निः अस्मभ्यमभीष्टं प्रयच्छत्वित्यर्थः ॥ १२ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५