मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् ४

संहिता

अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा ।
अ॒भि वाज॑मु॒त श्रवः॑ ॥

पदपाठः

अ॒भि । अ॒र्ष॒ । म॒हाना॑म् । दे॒वाना॑म् । वी॒तिम् । अन्ध॑सा ।
अ॒भि । वाज॑म् । उ॒त । श्रवः॑ ॥

सायणभाष्यम्

हे सोम त्वं महानां महतां देवानां वीतिं यज्ञं अन्धसा धानाद्यन्नेनसह अभ्यर्ष अभिगच्छ । उतापिच अभिगच्छंस्त्वं वाजं बलं श्रवोन्नं वा अभिगमयास्मानित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६