मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १, ऋक् ९

संहिता

अ॒भी॒३॒॑ममघ्न्या॑ उ॒त श्री॒णन्ति॑ धे॒नव॒ः शिशु॑म् ।
सोम॒मिन्द्रा॑य॒ पात॑वे ॥

पदपाठः

अ॒भि । इ॒मम् । अघ्न्याः॑ । उ॒त । श्री॒णन्ति॑ । धे॒नवः॑ । शिशु॑म् ।
सोम॑म् । इन्द्रा॑य । पात॑वे ॥

सायणभाष्यम्

उतापिच इममेनं शिशुं बालं सोमं अघ्न्याः अहन्तव्या धेनवोगावः इन्द्राय पातवे पातुमभिश्रीणन्ति स्वकीयेन पयसा संस्कुर्वन्तीत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७