अ॒स्येदिन्द्रो॒ मदे॒ष्वा विश्वा॑ वृ॒त्राणि॑ जिघ्नते ।
शूरो॑ म॒घा च॑ मंहते ॥
अ॒स्य । इत् । इन्द्रः॑ । मदे॑षु । आ । विश्वा॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ।
शूरः॑ । म॒घा । च॒ । मं॒ह॒ते॒ ॥
शूरो वीरइन्द्रः अस्येत् अस्य सोमस्यैव मदेषु विश्वा विश्वानि वृत्राणि शत्रून् आजिघ्रते आहन्ति । मघा मघानि धनानिच मंहते यजमानेभ्यः प्रयच्छति ॥ १० ॥
पवस्वेति दशर्चं द्वितीयं सूक्तं काण्वस्य मेधातिथेरार्षं गायत्रं पवमानसोमदेवताकं । तथाचानुक्रान्तं-पवस्वमेध्यातिथिरिति । उक्तोविनियोगः ।