मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ३

संहिता

अधु॑क्षत प्रि॒यं मधु॒ धारा॑ सु॒तस्य॑ वे॒धसः॑ ।
अ॒पो व॑सिष्ट सु॒क्रतु॑ः ॥

पदपाठः

अधु॑क्षत । प्रि॒यम् । मधु॑ । धारा॑ । सु॒तस्य॑ । वे॒धसः॑ ।
अ॒पः । व॒सि॒ष्ट॒ । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

सुतस्याभिषुतस्य वेधसोभिलषितस्य विधातुर्यस्य सोमस्य धारा प्रियं प्रीतिकरं मधु अमृतं अधुक्षत दुग्धे सुक्रतुः शोभनकर्मा सोमः अपोव- सतीवरीर्वसिष्ट आच्छादयति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८