मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ६

संहिता

अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न द॑र्श॒तः ।
सं सूर्ये॑ण रोचते ॥

पदपाठः

अचि॑क्रदत् । वृषा॑ । हरिः॑ । म॒हान् । मि॒त्रः । न । द॒र्श॒तः ।
सम् । सूर्ये॑ण । रो॒च॒ते॒ ॥

सायणभाष्यम्

वृषा कामानां वर्षको हरिर्हरितवर्णो महान् सर्वोत्तमो मित्रोन यथासखा तद्वत् दर्शतो दर्शनीयो योयंसोमः अचिक्रदत् शब्दंकरोति सोयंसोमः सूर्येणसह संरोचते दिवि प्रकाशते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९