मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २, ऋक् ९

संहिता

अ॒स्मभ्य॑मिन्दविन्द्र॒युर्मध्व॑ः पवस्व॒ धार॑या ।
प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ॥

पदपाठः

अ॒स्मभ्य॑म् । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः । मध्वः॑ । प॒व॒स्व॒ । धार॑या ।
प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ॥

सायणभाष्यम्

हे इन्दो सोम इन्द्रयुः इन्द्रकामस्त्वं मध्वोमदकरस्यामृतस्य धारया पर्जन्योवृष्टिमान् इवयथा वर्षवान् पर्जन्योमेघः तथास्मभ्यं मेधातिथिभ्यः पवस्व क्षर ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९