मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ४, ऋक् ८

संहिता

अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः ।
अथा॑ नो॒ वस्य॑सस्कृधि ॥

पदपाठः

अ॒भि । अ॒र्ष॒ । अन॑पऽच्युतः । र॒यिम् । स॒मत्ऽसु॑ । स॒स॒हिः ।
अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥

सायणभाष्यम्

हे सोम समत्सु संग्रामेषु अनपच्युतः शत्रूभिरनाहतः सासहिः शत्रुणामभिभविता त्वं रयिं धनं अभ्यर्ष अस्मानभिगमय । सिद्धमन्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३