मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ५, ऋक् १०

संहिता

वन॒स्पतिं॑ पवमान॒ मध्वा॒ सम॑ङ्ग्धि॒ धार॑या ।
स॒हस्र॑वल्शं॒ हरि॑तं॒ भ्राज॑मानं हिर॒ण्यय॑म् ॥

पदपाठः

वन॒स्पति॑म् । प॒व॒मा॒न॒ । मध्वा॑ । सम् । अ॒ङ्ग्धि॒ । धार॑या ।
स॒हस्र॑ऽवल्शम् । हरि॑तम् । भ्राज॑मानम् । हि॒र॒ण्यय॑म् ॥

सायणभाष्यम्

हे पवमानसोम हरितं हरितवर्णं हिरण्ययं कदाचिद्धिरण्मयवर्णंच भ्राजमानं दीप्यमानं सहस्रवल्शं सहस्रशाखं वनस्पतिं देवं धारया धारामयेन मध्वा मधुना समङ्धि अंक्ष्व संस्कुर्वित्यर्थः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५