मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् २

संहिता

अ॒भि त्यं मद्यं॒ मद॒मिन्द॒विन्द्र॒ इति॑ क्षर ।
अ॒भि वा॒जिनो॒ अर्व॑तः ॥

पदपाठः

अ॒भि । त्यम् । मद्य॑म् । मद॑म् । इन्दो॒ इति॑ । इन्द्रः॑ । इति॑ । क्ष॒र॒ ।
अ॒भि । वा॒जिनः॑ । अर्व॑तः ॥

सायणभाष्यम्

हे इन्दो सोम त्वं इन्द्रईश्वरइतिकृत्वा त्यं तं मद्यं मदकरं मदं रसं अभिक्षर वर्ष । वाजिनोबलवतः अर्वतोश्वांश्चास्मदर्थं अभिक्षरेत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६