मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ६, ऋक् ४

संहिता

अनु॑ द्र॒प्सास॒ इन्द॑व॒ आपो॒ न प्र॒वता॑सरन् ।
पु॒ना॒ना इन्द्र॑माशत ॥

पदपाठः

अनु॑ । द्र॒प्सासः॑ । इन्द॑वः । आपः॑ । न । प्र॒ऽवता॑ । अ॒स॒र॒न् ।
पु॒ना॒नाः । इन्द्र॑म् । आ॒श॒त॒ ॥

सायणभाष्यम्

द्रप्सासोद्रुतगतयः पुनानाः क्षरन्तः इन्दवः सोमाः प्रवता प्रवणेन मार्गेण आपोन आपइव इन्द्रं अन्वसरन् अनुगच्छन्ति आशत व्याप्नुवन्तिच ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६