मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् १

संहिता

असृ॑ग्र॒मिन्द॑वः प॒था धर्म॑न्नृ॒तस्य॑ सु॒श्रियः॑ ।
वि॒दा॒ना अ॑स्य॒ योज॑नम् ॥

पदपाठः

असृ॑ग्रम् । इन्द॑वः । प॒था । धर्म॑न् । ऋ॒तस्य॑ । सु॒ऽश्रिय॑ह् ।
वि॒दा॒नाः । अ॒स्य॒ । योज॑नम् ॥

सायणभाष्यम्

सुश्रियः शोभनश्रयणा अस्येन्द्रस्य योजनं संबन्धं विदाना जानन्तइन्दवः सोमाः धर्मन् कर्मणि ऋतस्य यज्ञस्य पथा मार्गेण असृग्रं हविर्धानाः सृज्यन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८