मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ६

संहिता

अव्यो॒ वारे॒ परि॑ प्रि॒यो हरि॒र्वने॑षु सीदति ।
रे॒भो व॑नुष्यते म॒ती ॥

पदपाठः

अव्यः॑ । वारे॑ । परि॑ । प्रि॒यः । हरिः॑ । वने॑षु । सी॒द॒ति॒ ।
रे॒भः । व॒नु॒ष्य॒ते॒ । म॒ती ॥

सायणभाष्यम्

हरिर्हरितवर्णः प्रियोदेवानां प्रियतमएव सोमो वनेषूदकेषु संपृक्तः अव्यः अवेः वारे वालोपेते परिसीदति निषीदति । किंच रेभोभिषववेलायां उपरवेषु शब्दं कुर्वन् मती मत्या स्तुत्या वनुष्यते सेव्यते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९