मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ७, ऋक् ९

संहिता

अ॒स्मभ्यं॑ रोदसी र॒यिं मध्वो॒ वाज॑स्य सा॒तये॑ ।
श्रवो॒ वसू॑नि॒ सं जि॑तम् ॥

पदपाठः

अ॒स्मभ्य॑म् । रो॒द॒सी॒ इति॑ । र॒यिम् । मध्वः॑ । वाज॑स्य । सा॒तये॑ ।
श्रवः॑ । वसू॑नि । सम् । जि॒त॒म् ॥

सायणभाष्यम्

हे रोदसी द्यावापृथिव्यौ युवां मध्वोदेवानां मोदयितुर्वाजस्य सोमात्मकस्यान्नस्य सातये लाभाय अस्मभ्यं काश्यपासितेभ्यः काश्यपदेवलेभ्योवा रयिं धनं श्रवोन्नंच वसूनि वासकान्यन्यान्यपि पश्वादीनि धनानि संजितं संजयतं प्रयच्छतमित्यर्थः ॥ ९ ॥

एते सोमाइति नवर्चं अष्टमं सूक्तं ऋष्याद्याः पूर्ववत् । अनुक्रान्तंच-एते सोमाइति । उक्तः सूक्तविनियोगः । ग्रावस्तोत्रे गाणगारिमतेनाभिरूप- करणे सोमेमृज्यमाने मृजन्तित्वेत्येषा । सूत्रितंच-अथापरमभिरूपं कुर्यादिति गाणगारिराप्यायस्वसमेतुतइति तिस्रो मृजन्तित्वादशक्षिपइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९