मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९, ऋक् ४

संहिता

स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुहः॑ ।
या एक॒मक्षि॑ वावृ॒धुः ॥

पदपाठः

सः । स॒प्त । धी॒तिऽभिः॑ । हि॒तः । न॒द्यः॑ । अ॒जि॒न्व॒त् । अ॒द्रुहः॑ ।
याः । एक॑म् । अक्षि॑ । व॒वृ॒धुः ॥

सायणभाष्यम्

याः नद्योयमेकं मुख्यं सोमं अक्षि अक्षिणं ववृधुः वर्धयन्ति ससोमो धीतिभिरंगुलिभिः । रशना धीतय इत्यंगुलिनामसुपाठात् । हितो निहितः सन् अद्रुहो द्रोहवर्जिताः सप्त सप्तसंख्याकानद्योनदीः अजिन्वत् प्रीणयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२