मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् १

संहिता

प्र स्वा॒नासो॒ रथा॑ इ॒वार्व॑न्तो॒ न श्र॑व॒स्यवः॑ ।
सोमा॑सो रा॒ये अ॑क्रमुः ॥

पदपाठः

प्र । स्वा॒नासः॑ । रथाः॑ऽइव । अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ।
सोमा॑सः । रा॒ये । अ॒क्र॒मुः॒ ॥

सायणभाष्यम्

प्रस्वानासोभिषववेलायां उपरवेषु शब्दंकुर्वन्तः सोमासः सोमाः रथाइव यथाशब्दं कुर्वन्तोरथाः अर्वन्तोन यथा शब्दंकुर्वन्तोश्वाः तथा श्रवस्यवः शत्रु भ्योन्नमिच्छन्तोराये यजमानानां धनाय अक्रमुः आगच्छन् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४