मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १०, ऋक् ६

संहिता

अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रवः॑ ।
वृष्णो॒ हर॑स आ॒यवः॑ ॥

पदपाठः

अप॑ । द्वारा॑ । म॒ती॒नाम् । प्र॒त्नाः । ऋ॒ण्व॒न्ति॒ । का॒रवः॑ ।
वृष्णः॑ । हर॑से । आ॒यवः॑ ॥

सायणभाष्यम्

मतीनां स्तुतीनां कारवः कर्तारः ऋत्विजः प्रत्नाः पुराणाः वृष्णः सेचकस्य सोमस्य हरये हरसः आहर्तारश्च आयवोमनुष्याः द्वारा यज्ञस्य द्वाराणि अपऋण्वंति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५