मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् २

संहिता

अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः ।
दे॒वं दे॒वाय॑ देव॒यु ॥

पदपाठः

अ॒भि । ते॒ । मधु॑ना । पयः॑ । अथ॑र्वाणः । अ॒शि॒श्र॒युः॒ ।
दे॒वम् । दे॒वाय॑ । दे॒व॒ऽयु ॥

सायणभाष्यम्

हे सोम ते तव देवं देवनशीलं देवयु देवयुं देवकामं रसं देवाय देवनशीलायेन्द्राय मधुना पगः गव्येन पयसा अथर्वाणऋषयः अभ्यशिश्रयुः अभ्य- श्रीणन् समस्कुर्वन्नित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६