ब॒भ्रवे॒ नु स्वत॑वसेऽरु॒णाय॑ दिवि॒स्पृशे॑ ।
सोमा॑य गा॒थम॑र्चत ॥
ब॒भ्रवे॑ । नु । स्वऽत॑वसे । अ॒रु॒णाय॑ । दि॒वि॒ऽस्पृशे॑ ।
सोमा॑य । गा॒थम् । अ॒र्च॒त॒ ॥
हे स्तोतारः बभ्रवे बभ्रुवर्णाय स्वतवसे स्वबलाय अरुणाय कदाचिदरुणवर्णाय दिविस्पृशे दिवं स्पृशते सोमाय नु क्षिप्रं गाथं स्तुतिरूपां वाचं अर्चत अच्चारयतेत्यर्थः ॥ ४ ॥