मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् ५

संहिता

हस्त॑च्युतेभि॒रद्रि॑भिः सु॒तं सोमं॑ पुनीतन ।
मधा॒वा धा॑वता॒ मधु॑ ॥

पदपाठः

हस्त॑ऽच्युतेभिः । अद्रि॑ऽभिः । सु॒तम् । सोम॑म् । पु॒नी॒त॒न॒ ।
मधौ॑ । आ । धा॒व॒त॒ । मधु॑ ॥

सायणभाष्यम्

हे ऋत्विजः हस्तच्युतेभिः हस्तप्रच्युतैः अद्रिभिः अभिषवग्रावभिः सुतमभिषुतं सोमं पुनीतन पवित्र पावयत । अपिच मधौ मदकरे सोमे मधु गव्यं पयआधावत प्रक्षिपत ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६