मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ११, ऋक् ७

संहिता

अ॒मि॒त्र॒हा विच॑र्षणि॒ः पव॑स्व सोम॒ शं गवे॑ ।
दे॒वेभ्यो॑ अनुकाम॒कृत् ॥

पदपाठः

अ॒मि॒त्र॒ऽहा । विऽच॑र्षणिः । पव॑स्व । सो॒म॒ । शम् । गवे॑ ।
दे॒वेभ्यः॑ । अ॒नु॒का॒म॒ऽकृत् ॥

सायणभाष्यम्

हे सोम अमित्रहा अमित्राणां हन्ता विचर्षणिः विद्रष्टा देवेभ्यः अनुकामकृत् अभीष्टस्य कर्ता त्वं गवेस्माकं शं सुखं पवस्व क्षर ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७