मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् २

संहिता

अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ ।
इन्द्रं॒ सोम॑स्य पी॒तये॑ ॥

पदपाठः

अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । गावः॑ । व॒त्सम् । न । मा॒तरः॑ ।
इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

विप्राः मेधाविनः सोमस्य पीतये पानाय इन्द्रं मातरोजनयित्र्योगावो वत्संन यथा वत्सं प्रति तद्वदभ्यनूषत अभिशब्दयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८