मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १२, ऋक् ८

संहिता

अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति ।
विप्र॑स्य॒ धार॑या क॒विः ॥

पदपाठः

अ॒भि । प्रि॒या । दि॒वः । प॒दा । सोमः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।
विप्र॑स्य । धार॑या । क॒विः ॥

सायणभाष्यम्

कविः क्रान्तकर्मा सोमो दिवोन्तरिक्षात् हिन्वानः प्रेर्यमाणो विप्रस्य मेधाविनः स्वस्य धारया प्रिया प्रियाणि पदा पदानि स्थानान्यभ्यर्षति अभिगच्छति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३९