मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् ६

संहिता

अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।
वि वार॒मव्य॑मा॒शवः॑ ॥

पदपाठः

अत्याः॑ । हि॒या॒नाः । न । हे॒तृऽभिः॑ । असृ॑ग्रम् । वाज॑ऽसातये ।
वि । वार॑म् । अव्य॑म् । आ॒शवः॑ ॥

सायणभाष्यम्

वाजसातये संग्रामाय हियानाः प्रेर्यमाणाः अत्यान अश्वाइव ते यथा प्रेरकैः प्रेर्यमाणाः संग्रामाय शीघ्रं धावन्ति तद्वत् हेतृभिः प्रेरकैः प्रेर्यमाणाः आशवः शीघ्रगामिनः सोमाः वाजसातये अन्नलाभाय अव्यं वारं दशापवित्रं व्यसृग्रं व्यतिसृज्यन्ते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः