मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १३, ऋक् ९

संहिता

अ॒प॒घ्नन्तो॒ अरा॑व्ण॒ः पव॑मानाः स्व॒र्दृशः॑ ।
योना॑वृ॒तस्य॑ सीदत ॥

पदपाठः

अ॒प॒ऽघ्नन्तः॑ । अरा॑व्णः । पव॑मानाः । स्वः॒ऽदृशः॑ ।
योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒ ॥

सायणभाष्यम्

हे पवमानाः अराव्णः अदानान् अयजमानान् अपघ्नन्तोहिंसन्तः स्वर्दृशः सर्वत्रद्रष्टारश्च यूयं ऋतस्ययोनौ यज्ञस्यस्थाने सीदत । अथवा सोमपानार्थं उक्तलक्षणादेवा ऋतस्ययोनौ सीदतेति योज्यम् ॥ ९ ॥

परिप्रेत्यष्टर्चं चतुर्दशं सूक्तं ऋष्यादिपुर्ववत् । परिप्राष्टावित्यनुक्रान्तम् । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः