मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् ६

संहिता

अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥

पदपाठः

अति॑ । श्रि॒ती । ति॒र॒श्चता॑ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या॑ ।
व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥

सायणभाष्यम्

अण्व्या अंगुल्या अभिषूयमाणः सोमः गव्या गव्यानि श्रिती श्रित्यै श्रयणार्थं तिरश्चता तिरश्चीनं अतिजिगाति । अंशुमतिक्रम्यगच्छति । तथांगुल्याभिषूयमाणो विदे यजमानस्य ज्ञानार्थं यं वग्नुं शब्दमियतिं प्रेरयति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः