मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १४, ऋक् ७

संहिता

अ॒भि क्षिप॒ः सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म् ।
पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥

पदपाठः

अ॒भि । क्षिपः॑ । सम् । अ॒ग्म॒त॒ । म॒र्जय॑न्तीः । इ॒षः । पति॑म् ।
पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः॑ ॥

सायणभाष्यम्

क्षिपागुलयो मर्जयन्तीः अभिमृशन्त्यः इषस्पतिं अन्नानां स्वामिनं सोमं अभि समग्मत अभिसंगच्छन्ते संगत्यच वाजिनोबलवतः सोमस्य पृष्ठा पृष्ठानि गृभ्णत गृह्णन्ति अभिपवांगुभ्णयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः