मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् २

संहिता

अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टयः॑ पृथि॒वीमि॑व ।
इन्द्रं॒ सोमा॑सो अक्षरन् ॥

पदपाठः

अ॒भि । सु॒वा॒नासः॑ । इन्द॑वः । वृ॒ष्टयः॑ । पृ॒थि॒वीम्ऽइ॑व ।
इन्द्र॑म् । सोमा॑सः । अ॒क्ष॒र॒न् ॥

सायणभाष्यम्

सुवानासः सुयमानाः इन्दवो द्रवरूपाः सोमासः सोमाः इन्द्रं प्रीणयितुं अभ्यक्षरन् किमिव वृष्टयः पृथिवीमिव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः