मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् ३

संहिता

अत्यू॑र्मिर्मत्स॒रो मद॒ः सोमः॑ प॒वित्रे॑ अर्षति ।
वि॒घ्नन्रक्षां॑सि देव॒युः ॥

पदपाठः

अति॑ऽऊर्मिः । म॒त्स॒रः । मदः॑ । सोमः॑ । प॒वित्रे॑ । अ॒र्ष॒ति॒ ।
वि॒ऽघ्नन् । रक्षां॑सि । दे॒व॒ऽयुः ॥

सायणभाष्यम्

अन्यूर्मिः अतिक्रान्ता ऊर्मयोयस्मात् सअत्यूर्मिः अतिप्रवृद्धइत्यर्थः । मत्सरो मादनशीलो मदो मदात्मकः सोमः पवित्रे अर्षति गच्छति । किंकुर्वन् रक्षांसि विघ्नन् घातयन् देवयुर्देवान् कामयमानः अर्षतीति संबन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः