मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १७, ऋक् ५

संहिता

अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् ।
इ॒ष्णन्त्सूर्यं॒ न चो॑दयः ॥

पदपाठः

अति॑ । त्री । सो॒म॒ । रो॒च॒ना । रोह॑न् । न । भ्रा॒ज॒से॒ । दिव॑म् ।
इ॒ष्णन् । सूर्य॑म् । न । चो॒द॒यः॒ ॥

सायणभाष्यम्

हे सोम त्वं त्रीरोचना रोचनानि त्रीन् लोकान् अति अतिक्रम्य रोहन् उपरिस्थं दिवंन द्युलोकंच भ्राजसे प्रकाशयसि । तथा इष्णन् गच्छन् सूर्यंन सूर्यंच चोदयः चोदयसि प्रेरयसि । नशब्दश्चार्थे ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः